Skip to content
-
Subscribe to our newsletter & never miss our best posts. Subscribe Now!
संस्कार

धर्म - आस्था - भक्ति

संस्कार

धर्म - आस्था - भक्ति

  • मुख्य प्रष्ट
  • आराधना
    • देवी आराधना
    • श्री गणेश
    • शिव आराधना
    • श्री विष्णु आराधना
  • नित्य पाठ
    • अथर्वशीर्ष
    • अष्टकम पाठ
    • कवच पाठ
    • स्तोत्रं
  • आरती
  • चालीसा संग्रह
  • मंत्र एवं नाम जाप
  • कथाएं
  • मुख्य प्रष्ट
  • आराधना
    • देवी आराधना
    • श्री गणेश
    • शिव आराधना
    • श्री विष्णु आराधना
  • नित्य पाठ
    • अथर्वशीर्ष
    • अष्टकम पाठ
    • कवच पाठ
    • स्तोत्रं
  • आरती
  • चालीसा संग्रह
  • मंत्र एवं नाम जाप
  • कथाएं
Close

Search

  • https://www.facebook.com/
  • https://twitter.com/
  • https://t.me/
  • https://www.instagram.com/
  • https://youtube.com/
Subscribe
कवच पाठशिव आराधना

अमोघ श्री शिव कवच

By admin
November 2, 2025 3 Min Read
0

वह एक अत्यंत दुर्लभ और प्रभावशाली शिव स्तोत्र है, जो भगवान महादेव की कृपा और संरक्षण प्रदान करता है।
यह कवच भक्त को सभी प्रकार के भय, शत्रु, रोग, ग्रहदोष, और नकारात्मक ऊर्जाओं से रक्षा देता है।

ध्यानम्

ॐ नमः शिवाय शान्ताय करालवदनाय च ।
नमस्ते कालरूपाय सदा कालहराय च ॥

अथ कवचम्- ऋषभ उवाच :
अथापरं सर्व-पुराण-गुह्यं निःशेष-पापौघ-हरं पवित्रम् ।
जयप्रदं सर्व-विपद्विमोचनं वक्ष्यामि शैवं कवचं हिताय ते ॥

नमस्कृत्य महादेवं विश्व-व्यापिन-मीश्वरम् ।
वक्ष्ये शिवमयं वर्म सर्व-रक्षाकरं नृणाम् ॥1॥

शुचौ देशे समासीनो यथा-वत्कल्पिता-सनः।
जितेन्द्रियो जित-प्राणश्चिन्तयेच्-छिव-मव्ययम् ॥2॥

हृत्पुण्डरी-कान्तरसन्निविष्टं स्वतेजसा व्याप्तनभो-ऽवकाशम् ।
अतीन्द्रियं सूक्ष्म-मनन्त-माद्यं ध्यायेत् परानन्द-मयं महेशम् ॥3॥

ध्याना-वधूताखिल-कर्म-बन्धश्-चिरं चिदानन्दनि-मग्नचेताः ।
षडक्षरन्यास-समाहित-आत्मा शैवेन कुर्यात् कवचेन रक्षाम् ॥4॥

| मूल कवच पाठ |
मां पातु देवो-ऽखिल-देवतात्मा संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं वरमन्त्र-मूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥5॥

सर्वत्र मां रक्षतु विश्वमूर्तिर्-ज्योतिर्मयानन्द-घनश्चिदात्मा ।
अणो-रणी-या-नुरुशक्ति-रेकः स ईश्वरः पातु भयाद-शेषात् ॥6॥

यो भूस्वरूपेण बिभर्ति विश्वं पायात् स भूमेर्गिरिशो-ऽष्टमूर्तिः ।
योऽपां स्वरूपेण नृणां करोति संजीवनं सोऽवतु मां जलेभ्यः ॥7॥

कल्पा-वसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रोऽवतु मां दवाग्नेर्-वात्यादि-भीतेर-खिलाच्च तापात् ॥8॥

प्रदीप्त-विद्युत्-कनकावभासो विद्या-वरा-भीति-कुठार-पाणिः ।
चतुर्मुखस्तत्पुरुष-स्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्रम् ॥9॥

कुठार-वेदांकुश-पाशशूल-कपाल-ढक्काक्ष-गुणान् दधानः ।
चतुर्मुखो नील-रुचि-स्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥10॥

कुन्देन्दुशंख-स्फटिका-वभासो वेदाक्षमाला-वरदाभयांकः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्यो-ऽधिजातो-ऽवतु मां प्रतीच्याम् ॥11॥

वराक्षमाला-भयटंक-हस्तः सरोज-किञ्जल्क-समानवर्णः ।
त्रिलोचनश्चारु-चतुर्मुखो मां पाया-दुदीच्यां दिशि वामदेवः ॥12॥

वेदाभ्येष्टांकुश-पाश-टंक-कपाल-ढक्काक्षक-शूलपाणि: ।
सितद्युति: पंचमुखो-ऽवतान्म-आमीशान ऊर्ध्वं परमप्रकाश: ॥13॥

मूर्द्धान-मव्यान्-मम चंद्रमौलिर् भालं ममाव्यादथ भालनेत्र: ।
नेत्रे ममाव्याद् भगनेत्रहारी नासां सदा रक्षतु विश्‍वनाथ: ॥14॥

पायाच्छ्रुती मे श्रुतिगीतकीर्ति: कपोलमव्यात् सततं कपाली ।
वक्त्रं सदा रक्षतु पंचवक्त्रो जिह्वां सदा रक्षतु वेदजिह्व: ॥15॥

कण्ठं गिरीशोऽवतु नीलकण्ठ: पाणिद्वयं पातु पिनाकपाणि: ।
दोर्मूल-मव्यान्मम धर्मबाहुर्-वक्ष:स्थलं दक्ष-मखान्तकोऽव्यात् ॥16॥

ममोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्-मदनांतकारी ।
हेरम्बतातो मम पातु नाभिं पायात्कटि धूर्जटिरीश्‍वरो मे ॥17॥

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्‍वरो-ऽव्यात् ।
जंघायुगं पुंग-वकेतु-रव्यात् पादौ ममाव्यत् सुर-वंद्यपाद: ॥18॥

महेश्‍वर: पातु दिनादियामे मां मध्य-यामेऽवतु वामदेव:।
त्र्यम्बकः पातु तृतीय-यामे वृषध्वज: पातु दिनांत्य-यामे ॥19॥

पायान्नि-शादौ शशि-शेखरो-मां गंगाधरो रक्षतु मां निशीथे।
गौरीपति: पातु निशा-वसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥20॥

अन्त: स्थितं रक्षतु शंकरो मां स्थाणु: सदा पातु बहि: स्थितम् माम् ।
तदंतरे पातु पति: पशूनां सदाशिवो रक्षतु मां समन्तात् ॥21॥

तिष्ठन्त-मव्याद्‍-भुवनैक-नाथ: पायाद्‍ व्रजन्तं प्रमथाधिनाथ: ।
वेदांत-वेद्यो-ऽवतु मां निषण्णं मामव्यय: पातु शिव: शयानम् ॥22॥

मार्गेषु मां रक्षतु नीलकण्ठ: शैलादि-दुर्गेषु पुरत्रयारि: ।
अरण्य-वासादि-महाप्रवासे पायान्मृगव्याध उदारशक्ति: ॥23॥

कल्पांत-काटोप-पटुप्रकोपः स्फुटाट्-टहासोच्-चलिताण्डकोश: ।
घोरारि-सेनार्ण-वदुर्निवार-महाभयाद् रक्षतु वीरभद्र: ॥24॥

पत्त्यश्‍व-मातंग-घटा-वरूथ-सहस्र-लक्षायुत-कोटि-भीषणम् ।
अक्षौहिणीनां शत-मात-तायिनां छिंद्यान्मृडो घोर-कुठार-धारया ॥25॥

निहंतु दस्यून् प्रलयान-लार्चिर्-ज्वलत त्रिशूलं त्रिपुरांतकस्य ।
शार्दूल-सिंहर्क्ष-वृकादि-हिंस्रान् संत्रास-यत्वीशधनु: पिनाकं ॥26॥

दु:स्वप्न-दुश्शकुन-दुर्गति-दौर्मनस्य-दुर्भिक्ष-दुर्व्यसन-दुस्सह-दुर्यशांसि ।
उत्पात-ताप-विषभीतिमसद्‍-ग्रहार्ति व्याधींश्‍च नाशयतु मे जगतामधीश: ॥27॥

ऋषभ उवाच :
इत्ये-तत्कवचं शैवं वरदं व्याहृतं मया ।
सर्व-बाधा-प्रशमनं रहस्यं सर्व-देहिनाम् ॥28॥

य: सदा धारयेन्मर्त्य: शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि भयं शंभो-रनु-ग्रहात् ॥29॥

क्षीणायुर्-मृत्यु-मापन्नो महारोग-हतोऽपि वा ।
सद्य: सुखम-वाप्नोति दीर्घ-मायुश्‍च विंदति ॥30॥

सर्व-दारिद्र्य-शमनं सौमंगल्य-विवर्धनम् ।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥31॥

महापातक-संघातैर्मुच्यते चोपपातकै: ।
देहांते शिवमाप्नोति शिव-वर्मानुभावत: ॥32॥

त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्य: श्रेयो ह्यवाप्स्यसि ॥33॥

सूत उवाच :
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे ।
ददौ शंखं महारावं खड्गं चारि-निषूदनम् ॥34॥

पुनश्च भस्म संमंत्र्य तदंगं सर्वतोऽस्पृशत् ।
गजानां षट्सहस्रस्य द्विगुणं च बलं ददौ ॥35॥

भस्म-प्रभावात्संप्राप्य बलैश्वर्य-धृति-स्मृतीः ।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥36॥

तमाह प्रांजलिं भूयः स योगी राजनंदनम् ।
एष खड्गो मया दत्त-स्तपो-मंत्रानुभावतः ॥37॥

शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम् ।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥38॥

अस्य शंखस्य निह्रादं ये शृण्वंति तवाहिताः ।
ते मूर्च्छिताः पतिष्यंति न्यस्त-शस्त्रा विचेतना ॥39॥

खड्ग-शंखाविमौ दिव्यौ परसैन्य-विनाशिनौ ।
आत्म-सैन्य-स्वपक्षाणां शौर्य-तेजो-विवर्धनौ ॥3.3.12.40॥

एतयोश्च प्रभावेन शैवेन कवचेन च ।
द्विषट्-सहस्त्र-नागानां बलेन महतापि च ॥41॥

भस्म-धारण-सामर्थ्याच्छ-त्रुसैन्यं विजेष्यसि ।
प्राप्य सिंहासनं पैत्र्यं गोप्तासि पृथिवी-मिमाम् ॥42॥

इति भद्रायुषं सम्यगनु-शास्य समातृकम् ।
ताभ्यां संपूजितः सोऽथ योगी स्वैर-गतिर्ययौ ॥43॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खंडे सीमंति-नीमाहात्म्ये भद्रायू-पाख्याने शिवकवच-कथनं नाम द्वादशो-ऽध्यायः ॥

Share this content:

Author

admin

Follow Me
Other Articles
Previous

श्री नारायण कवच 

Next

सोलह सोमबार व्रत कथा

संस्कार

  • एक श्लोकी रामायण-

भक्ति

  • Uncategorized
  • अथर्वशीर्ष
  • अष्टकम पाठ
  • आरती
  • कथाएं एवं कहानियाँ
  • कवच पाठ
  • चालीसा संग्रह
  • देवी आराधना
  • मंत्र एवं नाम जाप
  • शिव आराधना
  • श्री कृष्ण
  • श्री गणेश
  • श्री राम
  • श्री विष्णु आराधना
  • संस्कार
  • सहस्त्रनाम पाठ
  • स्तोत्रं
  • हनुमान भक्ति
Copyright 2026 — संस्कार . All rights reserved.