Skip to content
-
Subscribe to our newsletter & never miss our best posts. Subscribe Now!
संस्कार

धर्म - आस्था - भक्ति

संस्कार

धर्म - आस्था - भक्ति

  • मुख्य प्रष्ट
  • आराधना
    • देवी आराधना
    • श्री गणेश
    • शिव आराधना
    • श्री विष्णु आराधना
  • नित्य पाठ
    • अथर्वशीर्ष
    • अष्टकम पाठ
    • कवच पाठ
    • स्तोत्रं
  • आरती
  • चालीसा संग्रह
  • मंत्र एवं नाम जाप
  • कथाएं
  • मुख्य प्रष्ट
  • आराधना
    • देवी आराधना
    • श्री गणेश
    • शिव आराधना
    • श्री विष्णु आराधना
  • नित्य पाठ
    • अथर्वशीर्ष
    • अष्टकम पाठ
    • कवच पाठ
    • स्तोत्रं
  • आरती
  • चालीसा संग्रह
  • मंत्र एवं नाम जाप
  • कथाएं
Close

Search

  • https://www.facebook.com/
  • https://twitter.com/
  • https://t.me/
  • https://www.instagram.com/
  • https://youtube.com/
Subscribe
अथर्वशीर्षशिव आराधना

श्री शिव अथर्वशीर्ष

By admin
October 2, 2025 5 Min Read
0

।श्री गणेशाय नमः।

अथर्वशिरसामर्थमनर्थप्रोचवाचकम् ।
सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि-
र्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वॄद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ देवा ह वै स्वर्गं लोकमायंस्ते रुद्रमपृच्छन्को
भवानिति । सोऽब्रवीदहमेकः प्रथममासं वर्तामि च
भविश्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति ।
सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत्
सोऽहं नित्यानित्योऽहं व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राञ्चः
प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोहं
अधश्चोर्ध्वं चाहं दिशश्च प्रतिदिशश्चाहं
पुमानपुमान् स्त्रियश्चाहं गायत्र्यहं सावित्र्यहं
त्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दोऽहं गार्हपत्यो
दक्षिणाग्निराहवनीयोऽहं सत्योऽहं गौरहं
गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं
ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहं तेजोऽहं
गुह्योहंअरण्योऽहमक्षरमहं क्षरमहं पुष्करमहं
पवित्रमहमुग्रं च मध्यं च बहिश्च
पुरस्ताज्ज्योतिरित्यहमेव सर्वेभ्यो मामेव स सर्वः समां यो
मां वेद स सर्वान्देवान्वेद सर्वांश्च वेदान्साङ्गानपि
ब्रह्म ब्राह्मणैश्च गां गोभिर्ब्राह्माणान्ब्राह्मणेन
हविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मं
तर्पयामि स्वेन तेजसा ।
ततो ह वै ते देवा रुद्रमपृच्छन् ते देवा रुद्रमपश्यन् ।
ते देवा रुद्रमध्यायन् ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति ॥ १॥

ॐ यो वै रुद्रः स भगवान्यश्च ब्रह्मा तस्मै वै नमोनमः ॥ १॥
यो वै रुद्रः स भगवान् यश्च विष्णुस्तस्मै वै नमोनमः ॥ २॥
यो वै रुद्रः स भगवान्यश्च स्कन्दस्तस्मै वै नमोनमः ॥ ३॥
यो वै रुद्रः स भगवान्यश्चेन्द्रस्तस्मै वै नमोनमः ॥ ४॥
यो वै रुद्रः स भगवान्यश्चाग्निस्तस्मै वै नमोनमः ॥ ५॥
यो वै रुद्रः स भगवान्यश्च वायुस्तस्मै वै नमोनमः ॥ ६॥
यो वै रुद्रः स भगवान्यश्च सूर्यस्तस्मै वै नमोनमः ॥ ७॥
यो वै रुद्रः स भगवान्यश्च सोमस्तस्मै वै नमोनमः ॥ ८॥
यो वै रुद्रः स भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमोनमः ॥ ९॥
यो वै रुद्रः स भगवान्ये चाष्टौ प्रतिग्रहास्तस्मै वै नमोनमः ॥ १०॥
यो वै रुद्रः स भगवान्यच्च भूस्तस्मै वै नमोनमः ॥ ११॥
यो वै रुद्रः स भगवान्यच्च भुवस्तस्मै वै नमोनमः ॥ १२॥
यो वै रुद्रः स भगवान्यच्च स्वस्तस्मै वै नमोनमः ॥ १३॥
यो वै रुद्रः स भगवान्यच्च महस्तस्मै वै नमोनमः ॥ १४॥
यो वै रुद्रः स भगवान्या च पृथिवी तस्मै वै नमोनमः ॥ १५॥
यो वै रुद्रः स भगवान्यच्चान्तरिक्षं तस्मै वै नमोनमः ॥ १६॥
यो वै रुद्रः स भगवान्या च द्यौस्तस्मै वै नमोनमः ॥ १७॥
यो वै रुद्रः स भगवान्याश्चापस्तस्मै वै नमोनमः ॥ १८॥
यो वै रुद्रः स भगवान्यच्च तेजस्तस्मै वै नमोनमः ॥ १९॥
यो वै रुद्रः स भगवान्यश्च कालस्तस्मै वै नमोनमः ॥ २०॥
यो वै रुद्रः स भगवान्यश्च यमस्तस्मै वै नमोनमः ॥ २१॥
यो वै रुद्रः स भगवान्यश्च मृत्युस्तस्मै वै नमोनमः ॥ २२॥
यो वै रुद्रः स भगवान्यच्चामृतं तस्मै वै नमोनमः ॥ २३॥
यो वै रुद्रः स भगवान्यच्चाकाशं तस्मै वै नमोनमः ॥ २४॥
यो वै रुद्रः स भगवान्यच्च विश्वं तस्मै वै नमोनमः ॥ २५॥
यो वै रुद्रः स भगवान्याच्च स्थूलं तस्मै वै नमोनमः ॥ २६॥
यो वै रुद्रः स भगवान्यच्च सूक्ष्मं तस्मै वै नमोनमः ॥ २७॥
यो वै रुद्रः स भगवान्यच्च शुक्लं तस्मै नमोनमः ॥ २८॥
यो वै रुद्रः स भगवान्यच्च कृष्णं तस्मै वै नमोनमः ॥ २९॥
यो वै रुद्रः स भगवान्यच्च कृत्स्नं तस्मै वै नमोनमः ॥ ३०॥
यो वै रुद्रः स भगवान्यच्च सत्यं तस्मै वै नमोनमः ॥ ३१॥
यो वै रुद्रः स भगवान्यच्च सर्वं तस्मै वै नमोनमः ॥ ३२॥ ॥ २॥

भूस्ते आदिर्मध्यं भुवः स्वस्ते शीर्षं विश्वरूपोऽसि ब्रह्मैकस्त्वं द्विधा
त्रिधा वृद्धिस्तं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तं
सर्वमसर्वं विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वम् ।
अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मार्त्यस्य ।
सोमसूर्यपुरस्तात् सूक्ष्मः पुरुषः ।
सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सूक्ष्मं
सौम्यं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं
सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति स्वेन
तेजसा तस्मादुपसंहर्त्रे महाग्रासाय वै नमो नमः ।
हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ।
हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः । तस्योत्तरतः शिरो
दक्षिणतः पादौ य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवः
यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तः
योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं तच्छुक्लं
यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं
ब्रह्म स एकः य एकः स रुद्रः य रुद्रः यो रुद्रः स ईशानः य
ईशानः स भगवान् महेश्वरः ॥ ३॥

अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव
प्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यते ओङ्कारः ।
अथ कस्मादुच्यते प्रणवः यस्मादुच्चार्यमाण एव
ऋग्यजुःसामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति
नामयति च तस्मादुच्यते प्रणवः ।
अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव
सर्वांलोकान्व्याप्नोति स्नेहो यथा पललपिण्डमिव
शान्तरूपमोतप्रोतमनुप्राप्तो व्यतिषक्तश्च तस्मादुच्यते सर्वव्यापी ।
अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एव
तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तः ।
अथ कस्मादुच्यते तारं यस्मादुच्चारमाण एव
गर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायते
च तस्मादुच्यते तारम् ।
अथ कस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एव क्लन्दते
क्लामयति च तस्मादुच्यते शुक्लम् ।
अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा
शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यमिमृशति तस्मादुच्यते सूक्ष्मम् ।
अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एव व्यक्ते
महति तमसि द्योतयति तस्मादुच्यते वैद्युतम् ।
अथ कस्मादुच्यते परं ब्रह्म यस्मात्परमपरं परायणं च
बृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म ।
अथ कस्मादुच्यते एकः यः सर्वान्प्राणान्संभक्ष्य
संभक्षणेनाजः संसृजति विसृजति तीर्थमेके व्रजन्ति
तीर्थमेके दक्षिणाः प्रत्यञ्च उदञ्चः
प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह सद्गतिः ।
साकं स एको भूतश्चरति प्रजानां तस्मादुच्यत एकः ।
अथ कस्मादुच्यते रुद्रः यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्य
रूपमुपलभ्यते तस्मादुच्यते रुद्रः ।
अथ कस्मादुच्यते ईशानः यः सर्वान्देवानीशते
ईशानीभिर्जननीभिश्च परमशक्तिभिः ।
अमित्वा शूर णो नुमो दुग्धा इव धेनवः । ईशानमस्य जगतः
स्वर्दृशमीशानमिन्द्र तस्थिष इति तस्मादुच्यते ईशानः ।
अथ कस्मादुच्यते भगवान्महेश्वरः यस्माद्भक्ता ज्ञानेन
भजन्त्यनुगृह्णाति च वाचं संसृजति विसृजति च
सर्वान्भावान्परित्यज्यात्मज्ञानेन योगेश्वैर्येण महति महीयते
तस्मादुच्यते भगवान्महेश्वरः । तदेतद्रुद्रचरितम् ॥ ४॥

एको ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः ।
स एव जातः जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ।
एको रुद्रो न द्वितीयाय तस्मै य इमांल्लोकानीशत ईशनीभिः ।
प्रत्यङ्जनास्तिष्ठति संचुकोचान्तकाले संसृज्य विश्वा
भुवनानि गोप्ता ।
यो योनिं योनिमधितिष्ठतित्येको येनेदं सर्वं विचरति सर्वम् ।
तमीशानं पुरुषं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति ।
क्षमां हित्वा हेतुजालास्य मूलं बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे ।
रुद्रमेकत्वमाहुः शाश्वतं वै पुराणमिषमूर्जेण
पशवोऽनुनामयन्तं मृत्युपाशान् ।
तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजन्ति
पशुपाशविमोक्षणम् ।
या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां
ध्यायते नित्यं स गच्छेत्ब्रह्मपदम् ।
या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन
यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । या सा
तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तां
ध्यायते नित्यं स गच्छेदैशानं पदम् ।
या सार्धचतुर्थी मात्रा सर्वदेवत्याऽव्यक्तीभूता खं
विचरति शुद्धा स्फटिकसन्निभा वर्णेन यस्तां ध्यायते
नित्यं स गच्छेत्पदमनामयम् ।
तदेतदुपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणमयं पन्था
विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः
परमपरं परायणं चेति ।
वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम् ।
तमात्मस्थं येनु पश्यन्ति धीरास्तेषां शान्तिर्भवति नेतरेषाम् ।
यस्मिन्क्रोधं यां च तृष्णां क्षमां चाक्षमां हित्वा
हेतुजालस्य मूलम् ।
बुद्ध्या संचितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः ।
रुद्रो हि शाश्वतेन वै पुराणेनेषमूर्जेण तपसा नियन्ता ।
अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म
व्योमेति भस्म सर्वंह वा इदं भस्म मन एतानि
चक्षूंषि यस्माद्व्रतमिदं पाशुपतं यद्भस्म नाङ्गानि
संस्पृशेत्तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाश विमोक्षणाय ॥ ५॥

योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश । य इमा
विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोऽस्त्वग्नये ।
यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यो ओषधीर्वीरुध आविवेश ।
यो रुद्र इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोनमः ।
यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु । येन
रुद्रेण जगदूर्ध्वंधारितं पृथिवी द्विधा त्रिधा धर्ता
धारिता नागा येऽन्तरिक्षे तस्मै रुद्राय वै नमोनमः ।
मूर्धानमस्य संसेव्याप्यथर्वा हृदयं च यत् ।
मस्तिष्कादूर्ध्वं प्रेरयत्यवमानोऽधिशीर्षतः ।
तद्वा अथर्वणः शिरो देवकोशः समुज्झितः ।
तत्प्राणोऽभिरक्षति शिरोऽन्तमथो मनः ।
न च दिवो देवजनेन गुप्ता न चान्तरिक्षाणि न च भूम इमाः ।
यस्मिन्निदं सर्वमोतप्रोतं तस्मादन्यन्न परं किञ्चनास्ति ।
न तस्मात्पूर्वं न परं तदस्ति न भूतं नोत भव्यं यदासीत् ।
सहस्रपादेकमूर्ध्ना व्याप्तं स एवेदमावरीवर्ति भूतम् ।
अक्षरात्संजायते कालः कालाद्व्यापक उच्यते ।
व्यापको हि भगवान्रुद्रो भोगायमनो यदा शेते रुद्रस्तदा संहार्यते प्रजाः ।
उच्छ्वासिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथिते
मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं
भवत्यण्डाद्ब्रह्मा भवति ब्रह्मणो वायुः वायोरोङ्कारः
ॐकारात्सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति ।
अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्भुवम् ।
एतद्धि परमं तपः ।
आपोऽज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरो नम इति ॥ ६॥

य इदमथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति
अनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो
भवति स सूर्यपूतो भवति स सर्वेर्देवैर्ज्ञातो भवति स
सर्वैर्वेदैरनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो
भवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याः
षष्टिसहस्राणि जप्तानि भवन्ति इतिहासपुराणानां
रुद्राणां शतसहस्राणि जप्तानि भवन्ति ।
प्रणवानामयुतं जप्तं भवति । स चक्षुषः पङ्क्तिं पुनाति ।
आ सप्तमात्पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः
सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति ।
द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति ।
तृतीयं जप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यमों सत्यम् ॥ ७॥

ॐ भद्रं कर्णेभिरिति शान्तिः ॥

॥ इत्यथर्वशिरोपनिषत्समाप्ता ॥

Share this content:

Author

admin

Follow Me
Other Articles
Previous

श्री सूर्य अथर्वशीर्ष

Next

श्री नारायण अथर्वशीर्ष

No Comment! Be the first one.

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

संस्कार

  • एक श्लोकी रामायण-

भक्ति

  • Uncategorized
  • अथर्वशीर्ष
  • अष्टकम पाठ
  • आरती
  • कथाएं एवं कहानियाँ
  • कवच पाठ
  • चालीसा संग्रह
  • देवी आराधना
  • मंत्र एवं नाम जाप
  • शिव आराधना
  • श्री कृष्ण
  • श्री गणेश
  • श्री राम
  • श्री विष्णु आराधना
  • संस्कार
  • सहस्त्रनाम पाठ
  • स्तोत्रं
  • हनुमान भक्ति
Copyright 2026 — संस्कार . All rights reserved.